Maharshi Mrudgal karmakand and Jyotish karyalay

Maharshi Mrudgal karmakand and Jyotish karyalay Most humbly we bow to You, O Supreme Lord. At Your command moves the mighty wheel of time. You are eternal, and beyond eternity.

The one who loves all intensely
begins perceiving in all living b

कल्पोक्त नवदुर्गापूजाविधिः जय जय शङ्कर !ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका समेतायश्री चन्द्रमौळीश्वर परब्रह्मणे...
01/26/2026

कल्पोक्त नवदुर्गापूजाविधिः

जय जय शङ्कर !
ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका समेताय
श्री चन्द्रमौळीश्वर परब्रह्मणे नमः !

ॐ दुर्गा त्वार्या भगवती कुमारी अम्बिका तथा ।
महिषोन्मर्दिनी चैव चण्डिका च सरस्वती ।
वागीश्वरीति क्रमशः प्रोक्तास्तद्दिनदेवताः ॥

[ निर्णयसिन्धूदाहृतवचनैः अमावास्यासम्बन्ध
रहितायामुदयव्यापिन्यां आश्विनशुक्लप्रतिपदि नवरात्र
नवदुर्गा व्रतमारभेत् । तच्च नक्तव्रतत्वात् रात्रौ
कर्तव्यमित्येकः पक्षः । सम्प्रदायानुरोधेन व्यवस्था । ]

॥ प्रार्थना ॥

नवरात्रौ नक्तभोजी चरिष्येऽहं महेश्वरी ।
त्वत्प्रीत्यर्थं व्रतं देवि तदनुज्ञातुमर्हसि ॥

ॐ देवीं वाच॑मजनयन्त देवास्तां विश्वरू॑पाः पशवो॑
वदन्ति ।
सा नो॑ मन्द्रेषमूर्जं दुहा॑ना धेनुर्वागस्मानुप
सुष्टुतैतु॑ ॥

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽंघ्रियुग्मं
स्मरामि ॥

सुमुहूर्तमस्तु । सुप्रतिष्ठितमस्तु । उत्तरे कर्मणि
नैर्विघ्न्यमस्तु ॥

करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ
गुरुपूजां गणपतिप्रार्थनां च करिष्ये ॥

॥ गुरुपूजा ॥

ॐ गुं गुरुभ्यो नमः । ॐ पं परमगुरुभ्यो नमः । ॐ पं
परमेष्ठिगुरुभ्यो नमः ॥

गोत्राचार्येभ्यो नमः । बादरायणाय नमः । श्री
शङ्करभगवत्पादाचार्याय नमः ॥

प्रार्थनां समर्पयामि ॥

॥ गणपति प्रार्थना ॥

ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ श‍ृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥ २.०२३.०१

विघ्नेश्वराय नमः ॥ श्री महागणपतये नमः ॥ प्रार्थनां
समर्पयामि । कर्मकाले नैर्विघ्न्यं कुरु ॥

॥ घण्टानादः ॥

ॐ ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता
इमे॒ ।
ध्रु॒वं विश्व॑मिदं जग॑ध्द्रु॒वो राजा॑ विशामयम् ॥

ॐ येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः॑ पी॒यूषं॒
द्यौअदि॑ति॒रद्रि॑बर्हाः ।
उ॒क्तशु॑ष्मान्वृषभरान्त्स्वप्न॑स॒स्ता आ॑दि॒त्या
अनु॑मदा स्व॒स्तये॑ ॥

ॐ ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑
य॒ज्ञैर्वि॑धेम॒ नम॑सा हविर्भिः॑ ।
बृह॑स्पते सुप्र॒जा वी॒रवन्॑तो व॒यं स्या॑म॒
पत॑योर॒यीणाम् ॥

ॐ आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ।
कुर्वे घण्टारवं तत्र देवताह्वानलाञ्छनम् ॥ [ इति
घण्टानादं कृत्वा ]

॥ सङ्कल्पः : ॥

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं ।
प्रसन्न वदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

[ देशकालादौ संकीर्त्य]
ममोपात्त समस्त दुरित क्षयद्वारा श्री दुर्गापरमेश्वरी
प्रीत्यर्थं सर्वापच्छान्तिपूर्वक
दीर्घायुर्विपुलधनधान्यपुत्रपौत्राद्यनवच्छिन्नसन्ततिवृद्धि
स्थिरलक्ष्मीकीर्तिलाभशत्रुपराजयसदभीष्टसिद्धर्थं
यथासम्भवद्रव्यैः यावच्छक्ति ध्यानावाहनादि
षोडशोपचारपूजां करिष्ये ॥

॥ कलशपूजनम् ॥

तदङ्गत्वेन कलशपूजनं करिष्ये ॥

[ फलपुष्पपत्रादिना मण्टपमलङ्कृत्य तन्मध्ये
तण्डुलानि स्थापयेत् । तदुपरि चित्रवर्णेन अष्टदलपद्मं
लिखित्वा तन्मध्ये प्रक्षालितं
स्वर्णरजतताम्रमृण्मयाद्यन्यतमपात्रं धूपादिना विशोध्य
संस्थाप्य वस्त्रेणाऽच्छाद्य तत्कलशान्तराले पञ्चफल
पञ्चपल्लव स्वर्णरचित दुर्गा प्रतिमां गोधूम धान्योपरि
कलशे स्थापयेत् ]

ॐ मही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं
मि॑मिक्षताम् ।

पि॒पृतां नो॒ भरी॑मभिः ॥ [ भूमिं स्पृष्ट्वा ]

ॐ ओष॑दयः॒ सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ ।

यस्मै॑ कृ॒णोति॑ ब्राह्मणस्तं रा॑जन् पारयाम॑सि ॥

ॐ आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते ।

अ॒भि द्रोणा॒ कनि॑क्रदत् ॥ [ इति कलशमभिमन्त्र्य ]

ॐ तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः
प॒थो र॑क्ष धि॒या कृ॒तान् ।

अ॒नु॒ल्ब॒णं वय॑त॒ जोगु॑वा॒मपो॒ मनु॑र्भव
ज॒नया॒ दैव्यं॒ जन॑म् ॥ [ इति सूत्रं संवेष्ट्य

ॐ इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतुद्रि॒ स्तोमं॑
सचता॒ प॒रुष्ण्या ।

अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒याऽऽर्जी॑कीये
श‍ृणु॒ह्या सु॒षोम॑या ॥ इति जलं सम्पूर्य

ॐ स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भगः॑ ।

तं भा॒गं चि॒त्रमी॑महे ॥ इति पञ्चरत्नानि निधाय

ॐ अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑
वस॒तिष्कृ॒ता ।

गो॒भाज इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥ इति
पल्लवान् निक्षिप्य

ॐ पू॒र्णा द॑र्वी॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रापत॑ ।

व॒स्नेव॒ वि क्री॑णावहा॒ इष॒मूर्जꣳ॑ शतक्रतो ॥

इति दर्वीं निक्षिप्य

ॐ याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑
पुष्पिणीः॑ ।

बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒त्वंह॑सः ॥

इति फलं समर्प्य

ॐ गन्ध॑द्वा॒रां दु॑राध॒र्षां नित्य॑पुष्टां
करी॒षिणी॑म् ।

ई॒श्व॒रीं॒ स॑र्वभूतानां॒ तामि॒होप॑ह्वये॒
श्रिय॑म् ॥ इति गन्धम् समर्प्य

ॐ अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधा सो॒ अर्च॑त ।

अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न
धृ॒ष्ण्व॑र्चत ॥ इत्यक्षतान् निक्षिप्य

ॐ आय॑ने ते प॒राय॑णे दूर्वा॑ रोहन्तु पुष्पिणीः॑ ।

ह्र॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा
इ॒मे ॥ इति पुष्पाणि समर्पयेत्

ॐ पवित्रं॑ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा॑णि॒
पर्ये॑षि विश्वतः॑ ।

अत॑प्तनू॒र्न तदा॒मो अ॑श्नुते श‍ृ॒तास॒
इद्वह॑न्त॒स्तत्समा॑शत ॥ इति शिरःकूर्चं निधाय

ॐ तत्त्वायामीत्यस्य मन्त्रस्य शुनःशेप ऋषिः त्रिष्टुप् छन्दः
वरुणो देवता कलशे वरुणावाहने विनियोगः ॥

ॐ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते
यज॑मानोह॒विर्भिः ।

आहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शम्स॒मान॒ आयुः॒
प्रमो॑षीः ॥ इति अभिमन्त्रयेत्

अस्मिन् कलशे ॐ भूः वरुणमावाहयामि । ॐ भुवः
वरुणमावाहयामि । ॐ स्वः वरुणमावाहयामि ।
ॐ भूर्भुवस्स्वः वरुणमावाहयामि ॥

कलशस्य मुखे विष्णुः कण्ठे रुद्राः समाश्रिताः । मूले तत्र
स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥

कुक्षौ तु सागरास्सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ
यजुर्वेदः सामवेदोप्यथर्वणः ॥

अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः । अत्र
गायत्री सावित्री शान्तिः पुष्टिकरी तथा ।
आयान्तु देवीपूजार्थं दुरितक्षयकारकाः । सर्वे समुद्राः
सरितस्तीर्थानि जलदा नदाः ॥

गङ्गे च यमुने चैव गोदावरी सरस्वती । नर्मदे सिन्धु
कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥

सितमकरनिषण्णां शुभ्रवस्त्रां त्रिनेत्रां
करधृतकलशोद्यत्सूत्पलाभीत्यभीष्टाम् ।
विधिहरिहररूपां सेन्दुकोटीरचूडां भसितसितदुकूलां
जाह्नवीं तां नमामि ॥

कलशदेवताभ्यो नमः । प्रार्थनां समर्पयामि ॥

॥ शङ्ख पूजा ॥

[भूमिं प्रोक्ष्य शङ्खं प्रक्षाल्य संस्थाप्य ]

ॐ शं नो॑ दे॒वीर॒भीष्ट॑य॒ आ॑पो भवन्तु पी॒तये॑ ।

शं यो र॒भिस्र॑वन्तु नः ॥

[ इति मन्त्रेण जलं पूरयित्वा शङ्ख मुद्रां
धेनुमुद्रां च प्रदर्शयेत् ]

जातवेदस इत्यस्य मन्त्रस्य मारीचः कश्यप ऋषिः त्रिष्टुप्
चन्दः जातवेदाग्निर्देवता अग्निकलावाहने विनियोगः ॥

ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒
वेदः॑ ।

स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ वि॑श्वा ना॒वेव॒ सिन्धुं॑
दुरि॒तात्य॒ग्निः ॥

ॐ भूः अग्निकलामावाहयामि । ॐ भुवः अग्निकलामावाहयामि ।
ॐ स्वः अग्निकलामावाहयामि ।
ॐ भूर्भुवस्स्वः अग्निकलामावाहयामि ॥

तत्सवितुरित्यस्य मन्त्रस्य विश्वामित्र ऋषिः दैवी गायत्री
छन्दः सविता देवता सौरकलावाहने विनियोगः ॥

ॐ तत्स॑वि॒तुर्वरेण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒
यो नः॑ प्रचो॒दया॑त् ॥

ॐ भूः सौरकलामावाहयामि । ॐ भुवः
सौरकलामावाहयामि । ॐ स्वः सौरकलामावाहयामि ।
ॐ भूर्भुवस्स्वः सौरकलामावाहयामि ॥

त्र्यम्बकमिति मन्त्रस्य मैत्रावरुणिर्वसिष्ठ ऋषिः अनुष्टुप्
छन्दः त्र्यम्बक रुद्रो देवता अमृतकलावाहने विनियोगः ॥

ॐ त्र्य॑म्बकं यजामहे सुगन्धिं॑ पुष्टि॒वर्ध॑नम् ।

उ॒र्वा॒रु॒कमि॑व बन्ध॑ना॒त् मृत्योर्मु॑क्षीय॒
मामृता॑त् ॥

ॐ भूः अमृतकलामावाहयामि । ॐ भुवः
अमृतकलामावाहयामि । ॐ स्वः अमृतकलामावाहयामि ।
ॐ भूर्भुवस्स्वः अमृतकलामावाहयामि ॥

ॐ पवनगर्भाय विद्महे पाञ्चजन्याय धीमहि तन्नः शङ्खः
प्रचोदयात् ॥

[ इति त्रिवारमर्घ्यम् ]

॥ अथ मण्टपध्यानम् ॥

उत्तप्तोज्ज्वलकाञ्चनेन रचितं तुङ्गाङ्गरङ्गस्थलम् ।
शुद्धस्फाटिकभित्तिका विरचितैः स्तम्भैश्च हैमैः
शुभैः ॥ द्वारैश्चामर रत्न राजिखचितैः
शोभावहैर्मण्डपैः । तत्रान्यैरपि चक्रशङ्खधवलैः
प्रोद्भासितं स्वस्तिकैः ॥

मुक्ताजालविलम्बिमण्टपयुतैर्वज्रैश्च सोपानकैः ।
नानारत्नविनिर्मितैश्च कलशैरत्यन्तशोभावहम् ॥

माणिक्योज्ज्वलदीपदीप्तिरचितं लक्ष्मीविलासास्पदम् ।
ध्यायेन्मण्टपमर्चनेषु सकलेष्वेवं विधं साधकः ॥

॥ द्वारपालक पूजा ॥

ॐ क्षेत्रपालाय नमः । ॐ सिंहाय नमः । ॐ गरुडाय नमः ।
ॐ द्वारश्रियै नमः । ॐ धात्र्यै नमः ।
ॐ विधात्र्यै नमः । ॐ पूर्वद्वारश्रियै नमः । शङ्खनिधये
नमः । पुष्पनिधये नमः । दक्षिणद्वारश्रियै नमः । बलायै
नमः । प्रबलायै नमः । प्रचण्डायै नमः । पश्चिम
द्वारश्रियै नमः । जयायै नमः । विजयायै नमः । गङ्गायै
नमः । यमुनायै नमः । उत्तरद्वारश्रियै नमः । ऋग्वेदाय
नमः । यजुर्वेदाय नमः । सामवेदाय नमः । अथर्वणवेदाय
नमः । कृतयुगाय नमः । त्रेतायुगाय नमः । द्वापरयुगाय
नमः । कलियुगाय नमः । पूर्वसमुद्राय नमः ।
दक्षिणसमुद्राय नमः । पश्चिमसमुद्राय नमः ।
उत्तरसमुद्राय नमः । द्वारदेवताभ्यो नमः । द्वारपालक
पूजां समर्पयामि ॥

॥ पीठपूजा ॥

ॐ आधारशक्त्यै नमः । मूलप्रकृत्यै नमः । कूर्माय
नमः । अनन्ताय नमः । वास्त्वधिपतये ब्रह्मणे नमः ।
वास्तुपुरुषाय नमः । श्वेत द्वीपाय नमः । स्वर्णमण्डपाय
नमः । अमृतार्णवाय नमः । रत्नद्वीपाय नमः ।
नवरत्नमयमण्डपाय नमः । भद्रकमलासनायै नमः ।
गुणाधिपतये नमः । सरस्वत्यै नमः । दुर्गायै नमः ।
क्षेत्रपालाय नमः । धर्माय नमः । ज्ञानाय नमः ।
वैराग्याय नमः । ऐश्वर्याय नमः । अधर्माय नमः ।
अज्ञानाय नमः । अवैराग्याय नमः । अनैश्वर्याय नमः ।
अव्यक्तविग्रहाय नमः । अनन्दकन्दाय नमः । आकाशबीजात्मने
बुद्धिनालाय नमः । आकाशात्मने कर्णिकायै नमः ।
वाय्वात्मने केसरेभ्यो नमः । अग्न्यात्मने दलेभ्यो नमः ।
पृथिव्यात्मने परिवेषाय नमः । अं अर्कमण्डलाय
वसुप्रदद्वादशकलातत्वात्मने नमः । उं सोममण्डलाय
वसुप्रदषोडशकलातत्वात्मने नमः । मं वह्निमण्डलाय
वसुप्रददशकलातत्वात्मने नमः । सं सत्वाय नमः । रं
रजसे नमः । तं तमसे नमः । विं विद्यायै नमः । आं
आत्मने नमः । उं परमात्मने नमः । मं अन्तरात्मने नमः । ॐ
ह्रीं ज्ञानत्मने नमः । पीठपूजां समर्पयामि ॥

॥ आवाहनम् ॥

जातवेदस इत्यस्य मन्त्रस्य कश्यप ऋषिः त्रिष्टुप् छन्दः
जातवेदाग्निर्देवता दुर्गावाहने विनियोगः ॥

ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒
वेदः॑ ।

स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ वि॑श्वा ना॒वेव॒ सिन्धुं॑
दुरि॒तात्य॒ग्निः ॥

ॐ भूः दुर्गामावाहयामि । ॐ भुवः दुर्गामावाहयामि । ॐ
स्वः दुर्गामावाहयामि ।
ॐ भूर्भुवस्स्वः दुर्गामावाहयामि ॥

स्वामिन्यखिललोकेशी यावत्पूजावसानकम् । तावत्त्वं
प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥

॥ मलापकर्षणस्नानम् ॥

ॐ अग्निमीळेत्यस्य सूक्तस्य वैश्वामित्रोमधुच्छन्दा ऋषिः
गायत्री छन्दः अग्निर्देवता ॥

ॐ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होता॑रं र॒त्नधात॑मम् ॥

अ॒ग्निः पूर्वे॑भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त । स
दे॒वाꣳ एह वक्ष॑ति ॥

अ॒ग्निना॑ र॒यिम॑ष्नव॒त् पोष॑मे॒व दि॒वे दि॑वे ।
य॒शसं॑ वी॒रवत्त्॑अमम् ॥

अग्नी॒ यं य॒ज्ञमध्व॑रं वि॒श्वतः॑ परि॒भूरसि॑ । स
इद्दे॒वेषु॑ गच्छति ॥

अ॒ग्निर्होता॑ कविक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः । दे॒वो
दे॒वेभि॒रागमत् ॥

श्री दुर्गापरमेश्वर्यै नमः । मलापकर्षणस्नानं
समर्पयामि ॥

॥ नवशक्ति पूजा ॥

ॐ प्रभायै नमः । मायायै नमः । जयायै नमः । सूक्ष्मायै
नमः । विशुद्धायै नमः । नन्दिन्यै नमः । सुप्रभायै नमः ।
विजयायै नमः । सर्वसिद्धिप्रदायै नमः ॥

ॐ नमो भगवत्यै सकलगुणशक्तियुक्तायै
योगपद्मपीठात्मिकायै नमः । सुवर्ण महापीठं कल्पयामि ॥

स्वात्मसंस्थामजां शुद्धां त्वामद्य परमेश्वरी ।
अरण्यामिह हव्याशं मूर्तावावाहयाम्यहम् ॥

ॐ आं ह्रीं क्रों यरलवशषसहोऽं सं हंसः श्री
दुर्गापरमेश्वर्याः प्राणाः इह प्राणाः ।
ॐ आं ह्रीं क्रों यरलवशषसहोऽं सं हंसः श्री
दुर्गापरमेश्वर्याः जीव इह स्थितः ।
ॐ आं ह्रीं क्रों यरलवशषसहोऽं सं हंसः श्री
दुर्गापरमेश्वर्याः सर्वेन्द्रियाणि इह स्थितानि ।
पृथिव्यप्तेजोवाय्वाकाश
शब्दस्पर्शरूपरसगन्धश्रोत्रत्वक्चक्षुर्जिह्वाघ्राण
वाक्पाणिपादपायूपस्थवचनादानविहरणविसर्गानन्द
मनोबुद्धिचित्ताहङ्कारज्ञानात्मने अन्तरात्मने परमात्मने
नमः ॥ इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥

ॐ अ॑सुनीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह
नो॑ धे॒हि भोग॑म् ।

ज्योक् प॑श्येम॒ सूर्य॑मु॒च्चर॑न्त॒मनुमते मृ॒ळया॑ नः
स्व॒स्ति ॥

ॐ भूर्भुवस्स्वरोऽम् । सशक्तिसाङ्गसायुधसवाहनसपरिवारे
दुर्गे भगवति अत्रैवाऽगच्छाऽगच्छ आवाहयिष्ये
आवाहयामि ॥

आवाहिता भव । संस्थापिता भव । सन्निहिता भव ।
सन्निरुद्धा भव । सम्मुखा भव । अवकुण्ठितो भव । व्याप्ता
भव । सुप्रसन्ना भव । मम सर्वाभीष्ट फलप्रदा भव ॥

[ तद्दिनस्य दुर्गायाः मूलमन्त्रस्य ऋष्यादि न्यासं
विधाय ध्यात्वा मूलमन्त्रं यथा शक्ति जपेत् ]

श्री दुर्गापरमेश्वर्यै नमः । ध्यायामि ध्यानं
समर्पयामि । आवाहयामि आवाहनं समर्पयामि । अर्घ्यं
समर्पयामि । पाद्यं समर्पयामि । आचमनं समर्पयामि ।
मधुपर्कं समर्पयामि । गन्धं समर्पयामि । पुष्पं
समर्पयामि । [ इत्यादि संक्षिप्त धूप दीप नैवेद्य
नीराजनादिकं कुर्यात् ]

॥ पञ्चामृतस्नानम् ॥

क्षीरस्नानम्

ॐ आ प्या॑यस्व॒ स॑मेतु ते वि॒श्वतः॑ सोम॒ वृष्॑णियम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥

श्री दुर्गापरमेश्वर्यै नमः क्षीरस्नानं समर्पयामि ॥

क्षीरस्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥

ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒
वेदः॑ ।

स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ वि॑श्वा ना॒वेव॒ सिन्धुं॑
दुरि॒तात्य॒ग्निः ॥

श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥

दधिस्नानम्

ॐ द॒धि॒क्राव्णो॑ अकारिषं
जि॒ष्णोरश्व॑स्यवा॒जिनः॑।सुर॒भि नो॒ मुखा॑कर॒त्प्रण
आयूं॑षि तारिषत्।

श्री दुर्गापरमेश्वर्यै नमः दधिस्नानं समर्पयामि ॥

दधिस्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥

ॐ ताम॒ग्नि॑वर्णां॒ तप॑सा ज्व॒लन्तीं वै॑रोच॒नीं
क॑र्मफ॒लेषु॒ जुष्टा॑म् ।

दु॒र्गां॒ दे॒वीं शर॑णम॒हं प्रपद्ये॑ सुत॒र॑सि
तरसे॒ नमः॑ ॥

श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥

घृतस्नानम्

ॐ घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते
श्रि॒तो घृतम्व॑स्य॒धाम॑ ।

अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं
वृषभ वक्षिह॒व्यम् ॥

श्री दुर्गापरमेश्वर्यै नमः घृतस्नानं समर्पयामि ॥

घृतस्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥

ॐ अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान् स्व॒स्तिभि॒रति॑
दु॒र्गाणि॒ विश्वा॑ ।

पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒
तन॑याय॒ शं योः ॥

श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥

मधुस्नानम्

ॐ मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः ।

मधु॒नक्त॑मु॒तोषसि॒ । मधु॑म॒त् पार्थि॑वं॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥

मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्यः॑ ।
माध्वी॒र्गावो॑ भवन्तु नः ॥

श्री दुर्गापरमेश्वर्यै नमः मधुस्नानं समर्पयामि ॥

मधुस्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥

ॐ विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धुं॒ न ना॒वा
दु॑रि॒ताति॑ पर्षि ।

अग्नी॑ऽ अत्रि॒वन्नम॑सा गृणा॒नोऽऽस्माकं॑ बोध्य वि॒ता
त॒नूना॑म् ॥

श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥

शर्करास्नानम्

ॐ स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा॑य
सु॒हवी॑तुनाम्ने ।

स्वा॒दुर्मित्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒
मधु॑माꣳ अदा॑भ्यः ॥

श्री दुर्गापरमेश्वर्यै नमः शर्करास्नानं समर्पयामि ॥

शर्करास्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥

ॐ पृ॒त॒ना॒ जि॒त॒गं सह॑मानमु॒ग्रमग्निं हु॑वेम
प॒रमात्स॒धस्ता॑त् ।

स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा क्षाम॑द्दे॒वोऽति॑
दुरितात्यग्निः ॥

श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥

फलोदकस्नानम्

ॐ याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑
पुष्पिणीः॑ ।

बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒त्वंह॑सः ॥

श्री दुर्गापरमेश्वर्यै नमः फलोदकस्नानं समर्पयामि ॥

फलोदकस्नानानन्तरं शुद्धोदकेन स्नपयिष्ये ॥

ॐ आपो॒हिष्ठा म॑यो॒भुव॒स्तान॑ऊ॒र्जे द॑धा॒तन ।
म॒हेरणा॑य चक्ष॑से यो वः॑ शि॒वतमो॒ रसः॒ ।

तस्य॑ भाजयते॒ हनः॑ उ॒श॒तीरि॑व मा॒तरः॑ ।
तस्मा॒ अरङ्गमामवः॒ ।

यस्य॒क्षया॑य॒ जिन्व॑थ आपो॑ ज॒नय॑था च नः ॥

श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥

अमृताभिषेकम्

[ श्रीसूक्त- दुर्गा सूक्त - रुद्राद्यैः अमृताभिषेकं
कुर्यात् ]
श्री दुर्गापरमेश्वर्यै नमः अमृताभिषेकस्नानं
समर्पयामि ॥

॥ कल्पोक्त
षोडशोपचार पूजा ॥

ध्यानम्
ॐ दुर्गां भगवतीं ध्यायेन्मूलमन्त्राधिदेवताम् । वाणीं
लक्ष्मीं महादेवीं महामायां विचिन्तयेत् ।
माहिषघ्नीइं दशभुजां कुमारीं सिंहवाहिनीम् ।
दानवास्तर्जयन्ती च सर्वकामदुघां शिवाम् ॥

श्री दुर्गापरमेश्वर्यै नमः ध्यायामि ध्यानं समर्पयामि ॥

आवाहनम्
ॐ वाक् श्रीदुर्गादिरूपेण विश्वमावृत्य तिष्ठति ।
आवाहयामि त्वां देवि सम्यक् सन्निहिता भव ॥

श्री दुर्गापरमेश्वर्यै नमः आवाहयामि आवाहनं
समर्पयामि ॥

आसनम्
ॐ भद्रकालि नमस्तेऽस्तु भक्तानामीप्सितार्थदे ।
स्वर्णसिंहासनं चारु प्रीत्यर्थं प्रतिगृह्यताम् ॥

श्री दुर्गापरमेश्वर्यै नमः आसनं समर्पयामि ॥

स्वागतम्
ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । कृताञ्जलिपुटो
भक्त्या स्वागतं कल्पयाम्यहम् ॥

श्री दुर्गापरमेश्वर्यै नमः स्वागतं समर्पयामि ॥

अर्घ्यम्
ॐ महालक्ष्मि महामये महाविद्यास्वरूपिणी ।
अर्घ्यपाद्याचमान् देवि गृहाण परमेश्वरी ॥

श्री दुर्गापरमेश्वर्यै नमः अर्घ्य-पाद्य-आचमनानि
समर्पयामि ॥

मधुपर्कम्
ॐ दूर्वाङ्कुरसमायुक्तं गन्धादिसुमनोहरम् । मधुपर्कं
मया दत्तं नारायणि नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः मधुपर्कं समर्पयामि ॥

पञ्चामृतस्नानम्
ॐ स्नानं पञ्चामृतं देवि भद्रकालि जगन्मयि । भक्त्या
निवेदितं तुभ्यं विश्वेश्वरि नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः पञ्चामृतस्नानं
समर्पयामि ॥

शुद्धोदकस्नानम्
ॐ शुद्धोदकसमायुक्तं गङ्गासलिलमुत्तमम् । स्नानं गृहाण
देवेशि भद्रकालि नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः शुद्धोदकस्नानं समर्पयामि ॥

वस्त्रम्
ॐ वस्त्रं गृहाण देवेशि देवाङ्गसदृशं नवम् ।
विश्वेश्वरि महामाये नारायणि नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः रत्नदुकूलवस्त्रं समर्पयामि ॥

कञ्चुकम्
ॐ गोदावरि नमस्तुभ्यं सर्वाभीष्टप्रदायिनि ।
सर्वलक्षणसंभूते दुर्गे देवि नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः रत्नकञ्चुकं समर्पयामि ॥

यज्ञोपवीतम्
ॐ तक्षकानन्तकर्कोट नागयज्ञोपवीतिनि । सौवर्णं
यज्ञसूत्रं ते ददामि हरिसेविते ॥

श्री दुर्गापरमेश्वर्यै नमः स्वर्णयज्ञोपवीतं समर्पयामि ॥

आभरणम्
ॐ नानारत्नविचित्राढ्यान् वलयान् सुमनोहरान् । अलङ्कारान्
गृहाण त्वं ममाभीष्टप्रदा भव॥

श्री दुर्गापरमेश्वर्यै नमः आभरणानि समर्पयामि ॥

गन्धः
ॐ गन्धं चन्दनसंयुक्तं कुङ्कुमादिविमिश्रितम् । गृह्णीष्व
देवि लोकेशि जगन्मातर्नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः गन्धं समर्पयामि ॥

बिल्वगन्धः
ॐ बिल्ववृक्षकृतावासे बिल्वपत्रप्रिये शुभे ।
बिल्ववृक्षसमुद्भूतो गन्धश्च प्रतिगृह्यताम् ॥

श्री दुर्गापरमेश्वर्यै नमः बिल्वगन्धं समर्पयामि ॥

अक्षताः
ॐ अक्षतान् शुभदान् देवि हरिद्राचूर्णमिश्रितान् ।
प्रतिगृह्णीष्व कौमारि दुर्गादेवि नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः अक्षतान् समर्पयामि ॥

पुष्पाणि
ॐ मालतीबिल्वमन्दारकुन्दजातिविमिश्रितम् । पुष्पं गृहाण
देवेशि सर्वमङ्गलदा भव ॥

शिवपत्नि शिवे देवि शिवभक्तभयापहे । द्रोणपुष्पं मया
दत्तं गृहाण शिवदा भव ॥

श्री दुर्गापरमेश्वर्यै नमः नानाविध परिमळ पत्रपुष्पाणि
समर्पयामि ॥

॥ अथ अङ्गपूजा ॥

ॐ वाराह्यै नमः पादौ पूजयामि ।
ॐ चामुण्डायै नमः जङ्घे पूजयामि ।
ॐ माहेन्द्र्यै नमः जानुनी पूजयामि ।
ॐ वागीश्वर्यै नमः ऊरू पूजयामि ।
ॐ ब्रह्माण्यै नमः गुह्यं पूजयामि ।
ॐ कालरात्र्यै नमः कटिं पूजयामि ।
ॐ जगन्मायायै नमः नाभिं पूजयामि ।
ॐ माहेश्वर्यै नमः कुक्षिं पूजयामि ।
ॐ सरस्वत्यै नमः हृदयं पूजयामि ।
ॐ कात्यायन्यै नमः कण्ठं पूजयामि ।
ॐ शिवदूत्यै नमः हस्तान् पूजयामि ।
ॐ नारसिंह्यै नमः बाहून् पूजयामि ।
ॐ इन्द्राण्यै नमः मुखं पूजयामि ।
ॐ शिवायै नमः नासिकां पूजयामि ।
ॐ शताक्ष्यै नमः कर्णौ पूजयामि ।
ॐ त्रिपुरहंत्र्यै नमः नेत्रत्रयं पूजयामि ।
ॐ परमेश्वर्यै नमः ललाटं पूजयामि ।
ॐ शाकम्भर्यै नमः शिरः पूजयामि ।
ॐ कौशिक्यै नमः सर्वाणि अङ्गानि पूजयामि ॥

॥ अथ आवरण पूजा ॥

प्रथमावरणम्
[तद्दिनदुर्गायः अङ्गन्यासमन्त्राद्यैः
प्रथमावरणमाचरेत् ]

द्वितीयावरणम्
ॐ जयायै नमः ।
ॐ विजयायै नमः ।
ॐ कीर्त्यै नमः ।
ॐ प्रीत्यै नमः ।
ॐ प्रभायै नमः ।
ॐ श्रद्धायै नमः ।
ॐ मेधायै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ श्रुत्यै नमः ।

तृतीयावणम्
ॐ चक्राय नमः ।
ॐ शङ्खाय नमः ।
ॐ गदायै नमः ।
ॐ खड्गाय नमः ।
ॐ पाशाय नमः ।
ॐ अङ्कुशाय नमः ।
ॐ शराय नमः ।
ॐ धनुषे नमः ।

तुरीयावरणम्
ॐ इन्द्राय सुराधिपतये पीतवर्णाय वज्रहस्ताय
ऐरावतवाहनाय शचीसहिताय सशक्तिसाङ्गसायुध
सवाहन सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ अग्नये तेजोऽधिपतये पिङ्गलवर्णाय शक्तिहस्ताय
मेषवाहनाय स्वाहादेवीसहिताय सशक्तिसाङ्गसायुध
सवाहन सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ यमाय प्रेताधिपतये कृष्णवर्णाय दण्डहस्ताय
महिषवाहनाय इलासहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ निरृतये रक्षोऽधिपतये रक्तवर्णाय खड्गहस्ताय
नरवाहनाय कालिकासहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ वरुणाय जलाधिपतये श्वेतवर्णाय पाशहस्ताय
मकरवाहनाय पद्मिनीसहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ वायवे प्राणाधिपतये धूम्रवर्णाय अङ्कुशहस्ताय
मृगवाहनाय मोहिनीसहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ सोमाय नक्षत्राधिपतये श्यामलवर्णाय गदाहस्ताय
अश्ववाहनाय चित्रिणीसहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ ईशानाय विद्याधिपतये स्फटिकवर्णाय त्रिशूलहस्ताय
वृषभवाहनाय गौरीसहिताय सशक्तिसाङ्गसायुध
सवाहन सपरिवाराय श्री दुर्गापार्षदाय नमः ।
ॐ ब्रह्मणे लोकाधिपतये हिरण्यवर्णाय पद्महस्ताय
हंसवाहनाय वाणीसहिताय सशक्तिसाङ्गसायुध सवाहन
सपरिवाराय श्री दुर्गापार्षदाय नमः ।

पञ्चमावरणम्
ॐ वज्राय नमः ।
ॐ शक्त्यै नमः ।
ॐ दण्डाय नमः ।
ॐ खड्गाय नमः ।
ॐ पाशाय नमः ।
ॐ अङ्कुशाय नमः ।
ॐ गदायै नमः ।
ॐ शूलाय नमः ।
ॐ चक्राय नमः ।
ॐ पद्माय नमः ।

बिल्वपत्रम्
ॐ श्रीवृक्षममृतोद्भूतं महादेवी प्रियं सदा ।
बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरी ॥

श्री दुर्गापरमेश्वर्यै नमः बिल्वपत्रं समर्पयामि ॥

॥ अथ पुष्पपूजा ॥

ॐ दुर्गायै नमः तुलसी पुष्पं समर्पयामि
ॐ कात्यायन्यै नमः चम्पकपुष्पं समर्पयामि
ॐ कौमार्यै नमः जाती पुष्पं समर्पयामि
ॐ काल्यै नमः केतकी पुष्पं समर्पयामि
ॐ गौर्यै नमः करवीरपुष्पं समर्पयामि
ॐ लक्ष्म्यै नमः उत्पलपुष्पं समर्पयामि
ॐ सर्वमङ्गलायै नमः मल्लिकापुष्पं समर्पयामि
ॐ इन्द्राण्यै नमः यूथिकापुष्पं समर्पयामि
ॐ सरस्वत्यै नमः कमलपुष्पं समर्पयामि
ॐ श्री भगवत्यै नमः सर्वाणि पुष्पाणि समर्पयामि ॥

॥ अथ चतुःषष्टियोगिनी पूजा ॥

[ सर्वादौ ॐकारं योजयेत् ]
ॐ दिव्ययोगायै नमः ।
महायोगायै नमः ।
सिद्धयोगायै नमः ।
गणेश्वर्यै नमः ।
प्रेताश्यै नमः ।
डाकिन्यै नमः ।
काल्यै नमः ।
कालरात्र्यै नमः ।
निशाचर्यै नमः ।
झङ्कार्यै नमः ।
ऊर्ध्वभेताल्यै नमः ।
पिशाच्यै नमः ।
भूतडामर्यै नमः ।
ऊर्ध्वकेश्यै नमः ।
विरूपाक्ष्यै नमः ।
शुश्काङ्ग्यै नमः ।
नरभोजिन्यै नमः ।
राक्षस्यै नमः ।
घोररक्ताक्ष्यै नमः ।
विश्वरूप्यै नमः ।
भयङ्कर्यै नमः ।
भ्रामर्यै नमः ।
रुद्रभेताल्यै नमः ।
भीष्मर्यै नमः ।
त्रिपुरान्तक्यै नमः ।
भैरव्यै नमः ।
ध्वंसिन्यै नमः ।
क्रोध्यै नमः ।
दुर्मुख्यै नमः ।
प्रेतवाहिन्यै नमः ।
खट्वाङ्ग्यै नमः ।
दीर्घलम्बोष्ठ्यै नमः ।
मालिन्यै नमः ।
मन्त्रयोगिन्यै नमः ।
कौशिक्यै नमः ।
मर्दिन्यै नमः ।
यक्ष्यै नमः ।
रोमजङ्घायै नमः ।
प्रहारिण्यै नमः ।
कालाग्नये नमः ।
ग्रामण्यै नमः ।
चक्र्यै नमः ।
कङ्काल्यै नमः ।
भुवनेश्वर्यै नमः ।
यमदूत्यै नमः ।
फट्कार्यै नमः ।
वीरभद्रेश्यै नमः ।
धूम्राक्ष्यै नमः ।
कलहप्रियायै नमः ।
कण्टक्यै नमः ।
नाटक्यै नमः ।
मार्यै नमः ।
करालिन्यै नमः ।
सहस्राक्ष्यै नमः ।
कामलोलायै नमः ।
काकदंष्ट्रायै नमः ।
अधोमुख्यै नमः ।
धूर्जट्यै नमः ।
विकट्यै नमः ।
घोर्यै नमः ।
कपाल्यै नमः ।
विषलङ्घिन्यै नमः ॥ ॐ ॥

॥ अथ आश्टभैरवपूजा ॥

ॐ असिताङ्गभैरवाय नमः ।
ॐ क्रोधभैरवाय नमः ।
ॐ रुरुभैरवाय नमः ।
ॐ चण्डभैरवाय नमः ।
ॐ कपालभैरवाय नमः ।
ॐ खट्वाङ्गभैरवाय नमः ।
ॐ उन्मत्तभैरवाय नमः ।
ॐ भीषणभैरवाय नमः ।

॥ अथ अष्टोत्तरशतनाम पूजा ॥

[ अत्र तद्दिनदुर्गायाः नामावलीं स्मरेत् ]

॥ अथ धूपः ॥

ॐ सगुग्गुल्वगरूशीर गन्धादि सुमनोहरम् । धूपं गृहाण
देवेशि दुर्गे देवि नमोऽस्तुते ॥

श्री दुर्गापरमेश्वर्यै नमः धूपमाघ्रापयामि ॥

॥ अथ दीपः ॥

ॐ पट्टसूत्रोल्लसद्वर्ति गोघृतेन समन्वितम् । दीपं
ज्ञानप्रदं देवि गृहाण परमेश्वरी ॥

श्री दुर्गापरमेश्वर्यै नमः दीपं दर्शयामि ॥

॥ अथ नैवेद्यम् ॥

ॐ जुषाण देवि नैवेद्यं नानाभक्ष्यैः समन्वितम् ।
परमान्नं मया दत्तं सर्वाभीष्टं प्रयच्छ मे ॥

श्री दुर्गापरमेश्वर्यै नमः महानैवेद्यं समर्पयामि ॥

॥ अथ पानीयम् ॥

ॐ गङ्गादिसलिलोद्भूतं पानीयं पावनं शुभम् ।
स्वादूदकं मया दत्तं गृहाण परमेश्वरी ॥

श्री दुर्गापरमेश्वर्यै नमः अमृतपानीयं समर्पयामि ॥

॥ अथ ताम्बूलम् ॥

ॐ पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

श्री दुर्गापरमेश्वर्यै नमः ताम्बूलं समर्पयामि ॥

॥ अथ नीराजनम् ॥

ॐ पट्टिसूत्रविचित्राढ्यैः प्रभामण्डलमण्डितैः ।
दीपैर्नीराजये देवीं प्रणवाद्यैश्च नामभिः ॥

श्री दुर्गापरमेश्वर्यै नमः दिव्यमङ्गलनीराजनं
समर्पयामि ॥

॥ अथ मन्त्रपुष्पम् ॥

ॐ पा॒व॒का नः॒ स॑रस्वती वाजे॑भिर्वाजिनी॑वती ।
यज्ञं॒ व॑ष्टु धि॒याव॑सुः ॥

गौ॒रीर्मि॑माय सलि॒लानि॒ तक्षत्येक॑पदी द्वि॒पदी॒ सा
चतु॑ष्पदी ।

अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा
पर॒मे व्यो॑मन् ॥

ॐ रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने॑ नमो॑ व॒यं
वै॑श्रव॒णाय॑ कुर्महे ।

समे॒कामा॒न्काम॒कामा॑य॒ मह्यं॑ का॒मे॒श्व॒रो
वै॑श्रव॒णो द॑दातु ।

कुबे॒राय॑ वैश्रव॒णाय॑ महा॒रा॒जाय॒ नमः॑ ॥

ॐ गन्धपुष्पाक्षतैर्युक्तमञ्जलीकरपूरकैः । महालक्ष्मि
नमस्तेऽस्तु मन्त्रपुष्पं गृहाण भो ॥

श्री दुर्गापरमेश्वर्यै नमः वेदोक्त मन्त्रपुष्पं
समर्पयामि ॥

॥ अथ प्रदक्षिणनमस्कारः ॥

ॐ महादुर्गे नमस्तेऽस्तु सर्वेष्टफलदायिनि । प्रदक्षिणां
करोमि त्वां प्रीयतां शिववल्लभे ॥

श्री दुर्गापरमेश्वर्यै नमः प्रदक्षिणनमस्कारान्
समर्पयामि ॥

॥ अथ प्रार्थना ॥

ॐ जय रुद्रे विरूपाक्षि जयातीते निरञ्जनी । जय
कल्याणसुखदे जय मङ्गलदे शुभे ॥

जय सिद्धमुनीन्द्रादि वन्दितांघ्रिसरोरुहे । जय विष्णुप्रिये
देवि जय भूतविभूतिदे ॥

जय रत्नप्रदीप्ताभे जय हेमविभासिते । जय बालेन्दुतिलके
त्र्यम्बके जय वृद्धिदे ॥

सर्वलक्ष्मीप्रदे देवि सर्वरक्षाप्रदा भव ।
धर्मार्थकाममोक्षाख्य चतुर्वर्गफलप्रदे ॥

शैलपुत्रि नमस्तेऽस्तु ब्रह्मचारिणि ते नमः । कालरात्रि
नमस्तेऽस्तु नारायणि नमोऽस्तुते ॥

मधुकैटभहारिण्यै नमो महिषमर्दिनी । धूम्रलोचननिर्नाशे
चण्डमुण्डविनाशिनि ॥

रक्तबीजवधे देवि निशुम्भासुरघातिनी । नमः ।
शुम्भापहारिण्यै त्र्यैलोक्यवरदे नमः ॥

देवि देहि परं रूपं देवि देहि परं सुखम् । धर्मं देहि
धनं देहि सर्वकामांश्च देहि मे ॥

सुपुत्रांश्च पशून् कोशान् सुक्षेत्राणि सुखानि च । देवि देहि
परं ज्ञानमिह मुक्ति सुखं कुरु ॥

श्री दुर्गापरमेश्वर्यै नमः प्रार्थनां समर्पयामि ॥

॥ अथ प्रसन्नार्घ्यम् ॥

ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । बिल्वार्घ्यं च
मया दत्तं देवेशि प्रतिगृह्यताम् ॥

ज्ञानेश्वरि गृहाणेदं सर्वसौख्यविवर्धिनि ।
गृहाणार्घ्यं मया दत्तं देवेशि वरदा भव ॥

श्री दुर्गापरमेश्वर्यै नमः बिल्वपत्रार्घ्यं समर्पयामि ॥

॥ अथ पुनः पूजा ॥

ॐ कात्यायन्यै नमः ध्यानं समर्पयामि
ॐ कौमार्यै नमः आवाहनं समर्पयामि
ॐ विन्ध्यवासिन्यै नमः आसनं समर्पयामि
ॐ महेश्वर्यै नमः पाद्यं समर्पयामि
ॐ सिताम्भोजायै नमः अर्घ्यं समर्पयामि
ॐ नारसिंह्यै नमः आचमनीयं समर्पयामि
ॐ महादेव्यै नमः मधुपर्कं समर्पयामि
ॐ दयावत्यै नमः पुनराचमनीयं समर्पयामि
ॐ शाकंभर्यै नमः स्नानं समर्पयामि
ॐ दुर्गायै नमः वस्त्रं समर्पयामि
ॐ सरस्वत्यै नमः आभरणानि समर्पयामि
ॐ मेधायै नमः गन्धं समर्पयामि
ॐ सर्वविद्याप्रदायै नमः अक्षतान् समर्पयामि
ॐ सर्वसिद्धिप्रदायै नमः पुष्पाणि समर्पयामि
ॐ महाविद्यायै नमः धूपं समर्पयामि
ॐ सपत्निकायै नमः दीपं समर्पयामि
ॐ शान्त्यै नमः नैवेद्यं समर्पयामि
ॐ उमायै नमः हस्तप्रक्षाळनं समर्पयामि
ॐ चण्डिकायै नमः ताम्बूलं समर्पयामि
ॐ चामुण्डायै नमः नीराजनं समर्पयामि
ॐ माहाकाल्यै नमः मन्त्रपुष्पं समर्पयामि
ॐ शिवदूत्यै नमः प्रदक्षिणानि समर्पयामि
ॐ शिवायै नमः नमस्कारान् समर्पयामि
श्री दुर्गा परमेश्वर्यै नमः षोडशोपचार पूजां
समर्पयामि ॥

॥ अथ बिल्वपत्रार्पणम् ॥

ॐ सिद्धल

कात्यायनीस्तुतिः श्रीराम उवाच -नमस्ते त्रिजगद्वन्द्ये सङ्ग्रामे जयदायिनि ।प्रसीद विजयं देहि कात्यायनि नमोऽस्तु ते ॥ १॥सर...
01/26/2026

कात्यायनीस्तुतिः

श्रीराम उवाच -
नमस्ते त्रिजगद्वन्द्ये सङ्ग्रामे जयदायिनि ।
प्रसीद विजयं देहि कात्यायनि नमोऽस्तु ते ॥ १॥

सर्वशक्तिमये दुष्टरिपुनिग्रहकारिणि ।
दुष्टजृम्भिणि सङ्ग्रामे जयं देहि नमोऽस्तु ते ॥ २॥

त्वमेका परमाशक्तिः सर्वभूतेष्ववस्थिता ।
दुष्टान्संहर सङ्ग्रामे जयं देहि नमोऽस्तु ते ॥ ३॥

रणप्रिये रक्तभक्षे मांसभक्षणकारिणि ।
प्रपन्नार्तिहरे युद्धे जयं देहि नमोऽस्तु ते ॥ ४॥

खट्वाङ्गासिकरे मुण्डमालाद्योतितविग्रहे ।
ये त्वां स्मरन्ति दुर्गेषु तेषां दुःखहरा भव ॥ ५॥

त्वत्पादपङ्कजाद्दैन्यं नमस्ते शरणप्रिये ।
विनाशाय रणे शत्रून् जयं देहि नमोऽस्तु ते ॥ ६॥

अचिन्त्यविक्रमेऽचिन्त्यरूपसौन्दर्यशालिनि ।
अचिन्त्यचरितेऽचिन्त्ये जयं देहि नमोऽस्तु ते ॥ ७॥

ये त्वां स्मरन्ति दुर्गेषु देवीं दुर्गविनाशिनीम् ।
नावसीदन्ति दुर्गेषु जयं देहि नमोऽस्तु ते ॥ ८॥

महिषासृक्प्रिये सङ्ख्ये महिषासुरमर्दिनि ।
शरण्ये गिरिकन्ये मे जयं देहि नमोऽस्तु ते ॥ ९॥

प्रसन्नवदने चण्डि चण्डासुरविमर्दिनि ।
सङ्ग्रामे विजयं देहि शत्रून् जहि नमोऽस्तु ते ॥ १०॥

रक्ताक्षि रक्तदशने रक्तचर्चितगात्रके ।
रक्तबीजनिहन्त्री त्वं जयं देहि नमोऽस्तु ते ॥ ११॥

निशुम्भशुम्भसंहन्त्रि विश्वकर्त्रि सुरेश्वरि ।
जहि शत्रून् रणे नित्यं जयं देहि नमोऽस्तु ते ॥ १२॥

भवान्येतत्सर्वमेव त्वं पालयसि सर्वदा ।
रक्ष विश्वमिदं मातर्हत्वैतान् दुष्टराक्षसान् ॥ १३॥

त्वं हि सर्वगता शक्तिर्दुष्टमर्दनकारिणि ।
प्रसीद जगतां मातर्जयं देहि नमोऽस्तु ते ॥ १४॥

दुर्वृत्तवृन्ददमिनि सद्वृत्तपरिपालिनि ।
निपातय रणे शत्रूञ्जयं देहि नमोऽस्तु ते ॥ १५॥

कात्यायनि जगन्मातः प्रपन्नार्तिहरे शिवे ।
सङ्ग्रामे विजयं देहि भयेभ्यः पाहि सर्वदा ॥ १६॥

इति श्रीमहाभागवतेमहापुराणे श्रीरामकृता कात्यायनीस्तुतिःसमाप्ता ॥

Hanuman Chalisha Path Yagna Anusthan Must be Supported and Shared in USA
12/24/2025

Hanuman Chalisha Path Yagna Anusthan Must be Supported and Shared in USA

PANCHMUKH MAHAHANUMAN MARUTI YAGNA WITH 111 HANUMAN CHALISHA YAGNA & VADVHVANAL STOTRAM AHUTI BY ACHARYA MAHARSHI VAIDYA USA JAYY SHREE RAM WITH RAM RAKSHA ...

🟪🕉 नृसिंह मंत्र 🕉🟪ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्। नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥(हे क्रुद्ध...
12/24/2025

🟪🕉 नृसिंह मंत्र 🕉🟪
ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥

(हे क्रुद्ध एवं शूर-वीर महाविष्णु, तुम्हारी ज्वाला एवं ताप चतुर्दिक फैली हुई है। हे नरसिंहदेव, तुम्हारा चेहरा सर्वव्यापी है, तुम मृत्यु के भी यम हो और मैं तुम्हारे समक्षा आत्मसमर्पण करता हूँ।)

🌹🙏🏻🌹

Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.

🟪🕉 नृसिंह मंत्र 🕉🟪ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्। नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥(हे क्रुद्ध...
12/24/2025

🟪🕉 नृसिंह मंत्र 🕉🟪
ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥

(हे क्रुद्ध एवं शूर-वीर महाविष्णु, तुम्हारी ज्वाला एवं ताप चतुर्दिक फैली हुई है। हे नरसिंहदेव, तुम्हारा चेहरा सर्वव्यापी है, तुम मृत्यु के भी यम हो और मैं तुम्हारे समक्षा आत्मसमर्पण करता हूँ।)

🌹🙏🏻🌹

Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.

https://youtube.com/?si=SaCH6HyHBIq37HKr The navratri the UPASANA of DEVI  bhagavati Raja rajeshwari parAAMba mahadevi D...
09/29/2025

https://youtube.com/?si=SaCH6HyHBIq37HKr
The navratri the UPASANA of DEVI bhagavati Raja rajeshwari parAAMba mahadevi Durga
GLORIOUS WORSHIP DAYS HAS BEEN STARTED ALL THE DEVOTEES GET THERE WISHES THROUGH FULFILL ALL THE WISHES

Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.

Address

Metairie, LA
70006

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Telephone

+15046186999

Website

Alerts

Be the first to know and let us send you an email when Maharshi Mrudgal karmakand and Jyotish karyalay posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to Maharshi Mrudgal karmakand and Jyotish karyalay:

Share