हरि दर्शन-Hari Darshan

हरि दर्शन-Hari Darshan हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे |
हरे राम हरे राम राम राम हरे हरे ||

26/08/2023

सम्पूर्ण सनातनी एक हौँ ……

ॐ नम: पर्वतीपतये हरहर हर महादेव शम्भो 🙏🏻 शिवो गुरुः शिवो देवः शिवो बन्धुः शरीरिणाम्।शिव आत्मा शिवो जीवः शिवादन्यन्न किञ्...
18/02/2023

ॐ नम: पर्वतीपतये हरहर हर महादेव शम्भो 🙏🏻

शिवो गुरुः शिवो देवः शिवो बन्धुः शरीरिणाम्।
शिव आत्मा शिवो जीवः शिवादन्यन्न किञ्चन॥
नमस्ये त्वां महादेव लोकानां गुरुमीश्वरम्।
पुंसामपूर्णकामानां कामपूरामराङ्घ्रिपम्॥

यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।कृष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ।।नमोऽस्तु ते पुराणाय हरये विश्वमूर्तये...
14/07/2022

यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कृष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ।।
नमोऽस्तु ते पुराणाय हरये विश्वमूर्तये ।
सर्गस्थितिविनाशानां हेतवेऽनन्तशक्तये ।।
निर्गुणाय नमस्तुभ्यं निष्कलायामलात्मने ।
पुरुषाय नमस्तेस्तु विश्वरूपाय ते नमः ।।
नमस्ते वासुदेवाय विष्णवे विश्वयोनये ।
आदिमध्यान्तहीनाय ज्ञानगम्याय ते नमः ।।
🌹🙏🏻🌹

ॐ परमतत्वाय नारायणाय गुरुभ्यो नम: 🌹🙏🏻🌹
13/07/2022

ॐ परमतत्वाय नारायणाय गुरुभ्यो नम: 🌹🙏🏻🌹

श्रीशिव नमस्तुभ्यम् 🌹🙏🏻🌹
01/03/2022

श्रीशिव नमस्तुभ्यम् 🌹🙏🏻🌹

ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते ।प्रतिष्ठां कवितां देहि शक्तिं शिष्यप्रबोधिकाम्।।ग्रन्थनिर्मितिशक्तिं च स...
05/02/2022

ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते ।
प्रतिष्ठां कवितां देहि शक्तिं शिष्यप्रबोधिकाम्।।
ग्रन्थनिर्मितिशक्तिं च सच्छिष्यं सुप्रतिष्ठितम् ।
प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ।।
लुप्तां सर्वां दैववशान्नवां कुरु पुनः पुनः ।
यथाऽङ्कुरं जनयति भगवान्योगमायया ।।
ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी ।
सर्वविद्याधिदेवी या तस्यै वाण्ये नमो नमः ।।
यया विना जगत्सर्वं शश्वज्जीवन्मृतं सदा ।
ज्ञानाघिदेवी या तस्यै सरस्वत्यै नमो नमः ।।
यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा ।
वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ।।
हिमचन्दनकुन्देन्दुकुमुदाम्भोज सन्निभा ।
वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ।।
विसर्गबिन्दुमात्राणां यदधिष्ठानमेव च ।
इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ।।
यया विनाऽत्र संख्याकृत्संख्यां कर्त्तुं न शक्नुते ।
कालसंख्यास्वरूपा या तस्यै देव्यै नमो नमः ।।
व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता ।
भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ।।
स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्तिस्वरूपिणी ।
प्रतिभाकल्पनाशक्तिर्या च तस्यै नमो नमः ।।

श्रीब्रह्मवैवर्त पुराण प्रकृतिखण्ड (५)
सरस्वती स्तुति

प्रीयतां पुण्डरीकाक्षः सर्वयज्ञेश्वरो हरिः।तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं भवेत् ।।          श्रीहरि शरणम् 🌸...
12/11/2021

प्रीयतां पुण्डरीकाक्षः सर्वयज्ञेश्वरो हरिः।
तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं भवेत् ।।
श्रीहरि शरणम् 🌸🙏🏻🌸

Address

Boudha
Kathmandu

Website

Alerts

Be the first to know and let us send you an email when हरि दर्शन-Hari Darshan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to हरि दर्शन-Hari Darshan:

Share