19/08/2022
वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥
भगवान् श्रीकृष्णः साधूनां परित्राणाय, धर्मसंस्थापनाय जगदुद्धाराय मानवरूपेण अवततार। तेन अद्भुत लीलाः प्राकाशिता इति भागवतादिषु कथ्यते। शिशुनापि सता भगवता पूतन्यादयो हतः, अनेकाः असुराः निहताः। बालकरूपः कृष्णः पर्वतम् उद्धृत्य लोकानां विस्मयं जनयामास। कंसं च जघान। पाण्डवान् ररक्ष इत्यादि श्रूयते। मध्येसमुद्रं श्रीकृष्णेन द्वारका निर्मिता।किन्तु तत्सर्वं कथाशेषतां गतम्। अद्य अस्माभिः कृष्णः कस्मै प्रयोजनाय पूज्यत इति प्रश्नः । कृष्णोऽस्मभ्यं किं ददाति ? तस्मात् किं लब्धुं शक्नुमः ? इति चेत् ब्रूमः । जगद्गुरुरूपेण ज्ञानामृतं श्रीकृष्णः समस्ताय जगते ददातीति स एवास्माकं दैवतम्। उक्तं च -
प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ।। इति ।
भगवद्गीता सकलशास्त्रार्थगर्भिता सज्जीवनमार्गदर्शिनी श्रीकृष्णेन दत्ता । अत एव स योगेश्वर इति भगवानिति जगद्गुरु इति च भक्तैः भण्यते। दासवरेण्यैः चङ्क्रम्यमाणो बालकृष्णो वार्णितः। कविपुङ्गवैः रकुमिणीवल्लभः इति राधाप्रियः इति सत्यभामाकान्त इति स्तुतः। महाभारते पार्थसारथि इति दर्शितः। विष्णोरन्ये अवतारासन्ति। तथापि कृष्णावतारः पूर्णावतारः । सर्वेषां जनानां प्रियतमः अवतारः ।
सर्वेषां शिष्टाणां प्रियः कृष्णः सर्वत्र भारतवर्षेऽद्याराध्यते। यथा मथुरायां तथा द्वारकायां यथा वङ्गदेशे तथा केरलदेशे। वयं किमपि कार्यं कृत्वा अन्ते " श्रीकृष्णार्पणमस्तु " इति तस्मै परमात्मने अर्पयामः । सर्वैश्च वदैरहमेव वेद्यः इति तेनैव घोषितम्। नन्दगोपकुमारः श्रीकृष्णोऽद्य प्रसन्नः सर्वान् शिष्टान् रक्षतु । जगदाचार्यः श्रीकृष्णः विजयताम् । सर्वेषां जन्माष्टमी पर्वस्य हार्दिक शुभाशया।