24/08/2026
🦚 जय श्रीयुगल सरकार 🦚
कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः
▬▬▬ஜ۩۞۩ஜ▬▬▬
꧁ #कृष्ण_कृष्ण_कृष्ण_कृष्ण #꧂
▬▬▬ஜ۩۞۩ஜ▬▬▬
🌲🙏🙏🌲
🕊️🕊️🕊️🕊️🕊️
श्रीकृष्णनामाष्टकम्
निखिलश्रुतिमौलिरत्नमाला
द्युतिनीराजितपादपङ्कजान्त ।
अयि मुक्तकुलैरुपास्यमानं
परितस्त्वां हरिनाम संश्रयामि ॥ १॥
जय नामधेय मुनिवृन्दगेय हे
जनरञ्जनाय परमाक्षराकृते ।
त्वमनादरादपि मनाग् उदीरितं
निखिलोग्रतापपटलीं विलुम्पसि ॥ २॥
यदाभासोऽप्युद्यन् कवलितभवध्वान्तविभवो
दृशं तत्त्वान्धानामपि दिशति भक्तिप्रणयिनीम् ।
जनस्तस्योदात्तं जगति भगवन्नामतरणे
कृती ते निर्वक्तुं क इह महिमानं प्रभवति ॥ ३॥
यद् ब्रह्मसाक्षात्कृतिनिष्ठयापि
विनाशमायाति विना न भोगैः ।
अपैति नाम स्फुरणेन तत् ते
प्रारब्धकर्मेति विरौति वेदः ॥ ४॥
अघदमनयशोदानन्दनौ नन्दसूनो
कमलनयनगोपीचन्द्रवृन्दावनेन्द्राः ।
प्रणतकरुणकृष्णावित्यनेकस्वरूपे
त्वयि मम रतिरुच्चैर्वर्धतां नामधेय ॥ ५॥
*श्रीकृष्ण गोविन्द हरे मुरारी,*
*हे नाथ नारायण वासुदेवाय!!!*
*꧁!! Զเधॆ Զเधॆ !!꧂*
#मेरे_युगल_सरकार
#शुभप्रभात